________________ (295) करणाद् यजो भूते / 5 / 1 / 158 / करणार्थाद् नाम्नः पराद् भूतार्थाद् यजधातोः णिन् भवति / भग्निष्टोमेन अयाक्षीत् अग्निष्टोमयाजी। निन्द्ये व्याप्यादिन् विक्रियः / 5 / 1 / 159 / व्याप्याद् नाम्नः पराद् भूतार्थाद् विपूर्वात् क्रियः निन्छ कर्तरि इन् प्रत्ययो भवति / सोमविक्रयी / 'व्याप्यात् पराद् हन्तेः भूतार्थाद् णिन् वाच्यः, निन्ये कर्तरि सति' पितृघाती / मातृघाती। ब्रह्म-भ्रूण-त्रात क्विप् / 5 / 1 / 161 / .. एभ्यः कर्मभ्यः पराद् भूतार्थाद् हन्तेः क्विब् भवति / बह्माणं हतवान् ब्रह्महा / भ्रूणहा / वृत्रहा। कुगः सुपुण्यपापकर्ममन्त्रपदात् / 5 / 1 / 162 / एभ्यः पराद् भूतार्थाद् कृगः क्विब् भवति / सुकृत् / पुण्यकृत् / पापकृत् / कर्मकृत् / मन्त्रकृत् / पदकृत् / ___ सोमात् सुगः / .5 / 1 / 163 / सोमात् कर्मणः पराद् भूतार्थात् सुगः क्विब् भवति / सोमसुत् / 'अग्नेः कर्मणः पराद् भूतार्थात् चिनोतेः क्विन् वाच्यः।' अग्निं चितवान् अग्निचित् / . कर्मणामर्थे / 5 / 1 / 165 / कर्मणः पराद् भूतार्थात् चिनोतेरग्निरूपे कर्मणि क्विन् भवति / श्येनचित् /