________________ - (294) त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्-सको च / 5 / 1 / 152 / उपमानरूपव्याप्येभ्य एभ्यः पराद् दृशेः व्याप्येऽथे एव टक्सको क्विप् च भवन्ति / स्य इव दृश्यते त्यादृशः, त्यादृक्षः, त्यादृक् / तादृशः, तादृक्षः, तादृक् / अन्यादृशः, अन्यादृक्षः, अन्यादृक् / अमूदृशः, अमूदृक्षः, अमूदृक् / सदृशः, सदृक्षः, सहक् / कर्तुणिन् / 5 / 1 / 153 / __ कर्तुरुपमानात् पराद् धातोर्णिन् प्रत्ययो भवति / उष्ट्र इव कोशति उष्ट्रकोशी। अजातेः शीले। 5 / 1 / 154 / अजात्यर्थाद् नाम्नः पराद् शीलेऽर्थे, णिन् भवति / उष्णं मुझे तच्छील उष्णभोजी। साधौ / 5 / 1 / 155 / नाम्नः परात् साध्वर्थाद् धातोः णिन् भवति / साधुकारी। साधुपाठी। ब्रह्मणो वदः।५।१।१५६ / ब्रह्मणः पराद् वदेर्णिन् भवति / ब्रह्मवादी / व्रताभीक्ष्ण्ये / 5 / 1 / 157 / व्रताभीक्ष्ण्ययोः गम्ययोः नाम्नः पराद् धातोणिन् प्रत्ययो भवति / स्थण्डिले वर्तते स्थण्डिलवर्ती / क्षीरं पुनः पुनः पिबन्ति सीरपायिण उशीनराः /