________________ ( 292) भिक्षा-सेना-दायात् / 5 / 1 / 139 / / एभ्यः पराञ्चरतेष्टः प्रत्ययो भवति / भिक्षाचरी / सेनाचरः / मादायचरः। . पुरोऽग्रतोऽग्रे सतेः / 5 / 1 / 140 / .. एभ्य आधारेभ्यः परात् सरतेष्टः प्रत्ययो भवति / पुरःसरः / अग्रतःसरः / अग्रेसरः / . पूर्वात् कर्तुः। 5 / 1 / 141 / / कर्थे वर्तमानात् पूर्वात् परस्य सरतेष्टों भवति / पूर्वः सन् सरति पूर्वसरः / स्था-पा-स्ना-त्रः कः। 5 / 1 / 142 / / नाम्नः परेभ्य एभ्यः कः प्रत्ययो भवति / समात्यः / कच्छपः / नदीष्णः / धर्मत्रं छत्रम् / शोकापनुद-तुन्दपरिमृज-स्तम्बरम-कर्णेजपं प्रियालस हस्तिसूचके / 5 / 1 / 143 / एते प्रियाद्यर्थेषु यथासंख्यं कप्रत्ययान्ता निपात्यन्ते / शोकमपनुदति शोकापनुदः प्रियजनः / तुन्दं परिमार्टि तुन्दपरिमृजोऽलसः / स्तम्बे रमते स्तम्बेरमो हस्ती / कर्णे जपति कर्णेजपोऽतिखलः / मूलविभुजादयः / 5 / 1 / 144 / . - एते कप्रत्ययान्ता निपात्यन्ते / मूलविमुनो रथः / कुमुदं कैरवम्।