________________ (291), देशश्च / तुरं गच्छतीति तुरङ्गमः / विहायसा गच्छतीति विहङ्गमः पक्षी / सुतङ्गमो मुनिः / तुरगः / विहगः / तुरङ्गः / विहङ्गः / सुग-दुर्गमाधारे / 5 / 1 / 132 / ... सुदुर्यो पराद् गमेराधारे डप्रत्ययो भवति / सुखेन गम्यतेऽस्मिन्निति सुगः / एवं दुर्गः / निर्गो देशे / 5 / 1 / 133 / ' निरपूर्वाद् गमेः देशेऽर्थे डप्रत्ययो भवति / निर्गो देशः / . शमो नाम्न्यः / 5 / 1 / 13 / शमो नाम्नः पराद् धातोः सञ्ज्ञायामः प्रत्ययो भवति / शम्भवो नामाईन् / . पार्थादिभ्यः शीङः / 5 / 1 / 135 / . एभ्यो नामभ्यः परात् शीङः अप्रत्ययो भवति / पार्श्वशयः / ऊर्ध्वादिभ्यः कर्तुः। 5 / 1 / 136 / .. एभ्यः कर्तृवाचिभ्यः परात् शीङः अप्रत्ययो भवति / उर्ध्वशयः / उत्तानशयः / आधारात् / 5 / 1 / 137 / : आधारवाचिनो नाम्नः पराच्छीङः अः प्रत्ययो भवति / खे ोते खशयः / चरेष्टः / 5 / 1 / 138 / .. आधाराचरतेष्टः प्रत्ययो भवति / कुरुषु चरति कुरुचरी। गूर्जरचरा मुनयः /