________________ (290) कूलादुद्रुनोद्वहः / 5 / 1 / 122 / अस्मात् पराभ्यामाभ्यां खश् भवति / कूलमुद्रुनः / कूल. मुद्रहः / वहानाल्लिहः / 5 / 1 / 123 / वहाभ्राभ्यां कर्मभ्यां परात् लिहेः खश् भवति / वहलिहः / भभ्रंलिहः / बहुविध्वरुस्तिलात् तुदः / 5 / 1 / 124 / एभ्यः कर्मभ्यः परात् तुदतेः खश् भवति। बहुन्तुदः / विधु. न्तुदः / अरुन्तुदः / तिलन्तुदः / ललाट-वात-शर्थात् तपाजहाकः / 5 / 1 / 125 / एभ्यः कर्मभ्यः परेभ्यो यथासंख्यं तपाजहाभ्यः कर्तरि खश् प्रत्ययो भवति / ललाटन्तपः सूर्यः / वातमजः मृगः / शर्धञ्जहः / असूर्योग्राद् दृशः / 5 / 1 / 126 / आभ्यां पराद् दृशेः कर्तरि खश् प्रत्ययो भवति / न सूर्य पश्यन्तीति असूर्यम्पश्या राजदाराः / उग्रम्पश्यो राना। इरम्मदः / 5 / 1 / 127 / इरापूर्वाद् माद्यतेः कर्तरि खश् प्रत्ययो भवति / इरया माद्यतीति इरम्मदः / नाम्नो गमः खड्डौ च विहायसस्तु विहः। 5 / 1 / 131 // नाम्नः पराद् गच्छतेः एते खड्डखाः स्यु:, विहायसस्तु विहा