________________ ( 289) . . मन्याण्णिन् / 5 / 1 / 116 / कर्मणः परात् मन्यतेर्णिन् प्रत्ययो भवति / पण्डितमानी बन्धोः / कर्तुः खश् / 5 / 1 / 117 / प्रत्ययार्थरूपात् कर्तृरूपात् कर्मणः परात् मन्यतेः खश् प्रत्ययो भवति / आत्मानं पण्डितं मन्यते इति / . खित्यनव्ययारुषो मोन्तो ह्रस्वश्च / 3 / 2 / 111 / स्वरान्तस्याव्ययभिन्नस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे परे मोऽन्तो यथासम्भवं हूस्वश्च / पण्डितम्मन्यः / शम्मन्यः / अरुन्तुदः। 'कर्मणः परादेजेः खश् वाच्यः' जनमेजयो नाम राजा / शुनीस्तनमुझकूलास्यपुष्पात् दधेः / 5 / 1 / 119 / एभ्यः कर्मभ्यः धेः कर्तरि खश् प्रत्ययो भवति / शुनिन्धयः। स्तनन्धयः / मुञ्जन्धयः कुलन्धयः / आस्यन्धयः / पुष्पन्धयः / नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च / 5 / 1 / 120 / . एभ्यः कर्मभ्यो धमतेः धयतेश्च कर्तरि खश् प्रत्ययो भवति / नाडिन्धमः / नाडिन्धयः / घटिन्धमः / घटिन्धयः / खरिन्धमः / खरिन्धयः / मुष्टिन्धमः / मुष्टिन्धयः / नासिकन्धमः। नासिकन्धयः। वातन्धमः / वातन्धयः / _ पाणि-करात् / 5 / 1 / 121 / आभ्यां धमतेः खश् प्रत्ययो भवति / पाणिन्धमः / करन्धमः / 19