________________ . (288) परिमाणार्थमितनखात् पचः। 5 / 1 / 109 / . परिमाणार्थात् मितनखाभ्यां च कर्मभ्यः परात् पचेः खो भवति / प्रस्थम्पचा / नखम्पचः / कूलाभ्रकरीषात् कपः / 5 / 1 / 110 / - एभ्यः कर्मभ्यः कषतेः खो भवति / कूलषा / अभ्रषः / करीषङ्कषः / सर्वात् सहश्च / 6 / 1 / 111 / सर्वशब्दात् परात् सहेः कषेश्च खः प्रत्ययो भवति / सर्व. सहो मुनिः / सर्वकषः खलः / भृवृजितृतपदमेश्व नान्नि। 5 / 1 / 112 / कर्मभ्यः परेभ्य एभ्यः सहतेश्च संज्ञायां खो भवति / विश्वम्भरा मेदिनी। पतिंवरा कन्या / शत्रुञ्जयः अद्रिः / रथन्तरं साम / शत्रुन्तपो राजा / बलिन्दमः कृष्णः / शत्रुसहो राजा / नाम्नीति किम् ? कुटुम्बभारः / धारेर्धर् च / 5 / 1 / 113 / कर्मणः पराद् धारेः सञ्ज्ञायां खो भवति, धारेः धरादेशश्च / वसुन्धरा पृथ्वी। ____पुरन्दर-भगन्दरौ। 5 / 1 / 114 / एतौ सज्ञायां निपात्येते / पुरं दृणाति पुरन्दरः शक्रः / भगं दारयति भगन्दरो व्याधिः / 'व्रते गम्ये वाचंयमो निपात्यः' वाचंयमो व्रतीत्यर्थः /