________________ ( 287.) हेतुतच्छीलाजुकूलेऽशब्दश्लोककलहगाथावरचाटुमूत्र . मन्त्रपदात् / 5 / 1 / 103 / / शब्दादिवर्जितात् कर्मणः परात् कृगष्टक् प्रत्ययो भवति, हेतुतच्छीलानुकूलेषु कर्तृषु / यशस्करी विद्या / श्राद्धकरो ब्राह्मणः / प्रेषणाकरः / शब्दादिवर्जनं किम् ? शब्दकारः। श्लोककारः / कलहकारः / गाथाकारः / वैरकारः / चाटुकारः / / सूत्रकारः / मन्त्रकारः / पदकारः / भृतो कर्मणः / 5 / 1 / 104 / कर्मणः कर्मणः पराद भृतौ गम्यमानायां कृगष्टक् भवति / कर्मकरी दासी। क्षेम-प्रिय-मद्र-भंद्रात खाण् / 5 / 1 / 105 / एभ्यः कर्मभ्यः परात् कृगः खोऽणश्च भवतः / क्षेमङ्करः, क्षेमकारः / प्रियङ्करः, प्रियकारः / मद्रङ्करः, मद्रकारः / भद्रङ्करः, भद्रकारः / . मेघर्तिभयाभयात् खः / 5 // 1 / 106 / एभ्यः कर्मभ्यः कृगः खो भवति / मेघङ्करः / ऋतिङ्करः / भयङ्करः / अभयङ्करः। प्रिय-वशाद् वदः / 5 / 1 / 107 / आभ्यां कर्मभ्यां वदतेः कर्तरि खः प्रत्ययो भवति। प्रियंवदः / वशंवदः / द्विषन्तप-परन्तपौ कर्तरि ण्यन्तस्य तपेः निपात्यौ' द्विषतः तापयतिं द्विपन्तपः / एवं परन्तपः /