________________ (286) रजः-फले-मलाद् ग्रहः / 5. / 1 / 98 / एभ्यः कर्मभ्यः पराद् ग्रधातोः इ: प्रत्ययो भवति / रजोग्रहिः / फलेअहिः / मलग्रहिः / / देव-वातादापः / 5 / 1 / 99 / आभ्यां परादापधातोरिः प्रत्ययो भवति / देवापिः / वातापिः / शकृत्स्तम्बाद् वत्सनीही कृगः / 5 / 1 / 100 / आभ्यां कर्मभ्यां परात् कृगो यथासंख्यं वत्सब्रीह्योः कोरिः भवति। शकृत्करिः वत्सः / स्तम्बकरिः व्रीहिः / 'किंयत्तबहुभ्यः कृगः अः वाच्यः' किंकरः, यत्करः, तत्करः, तस्करः चौरश्चेत् , बहुकरः। संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाहरुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदार जनिदोषादिनदिवसाट्टः / 5 / 1 / 102 / एभ्यः कर्मभ्यः कृगः ट: प्रत्ययो भवति / संख्याकरः / द्विकरः / अहस्करः / दिवाकरः / विभाकरः / निशाकरः / प्रभाकरः / भास्करः / चित्रकरः / कर्तृकरः / आदिकरः / अन्तकरः / अनन्तकरः / कारकरः / बाहुकरः / अरुष्करः / धनुष्करः / नान्दीकरः / लिपिकरः / लिविकरः / बलिकरः / भक्तिकरः / क्षेत्रकरः / जङ्घाकरः / क्षपाकरः / क्षणदाकरः / रजनिकरः / दोषाकरः / दिनकरः / दिवसकरः / संख्याकरी /