________________ (285) धनुर्दण्डत्सरुलाङ्गलाङ्कुशयिष्टिशक्तिोमरघटाद् - ग्रहः / 5 / 1 / 92 / . एभ्यः कर्मभ्यः पराद् ग्रहेरच प्रत्ययो भवति / धनुर्ग्रहः / दण्डग्रहः / त्सरुग्रहः / लाङ्गलग्रहः / अङ्कुशग्रहः / ऋष्टिग्रहः / यष्टिग्रहः / शक्तिग्रहः / तोमरग्रहः / घटग्रहः / सूत्राद् धारणे / 5 / 1 / 93 / सूत्रात् कर्मणः पराद् ग्रधातोः ग्रहणपूर्वकधारणार्थाद् अच भवति / सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा / आयुधादिभ्यो धृगोऽदण्डादेः / 5 / 1 / 94 / . दण्डादिवर्जितादायुधादः कर्मणः पराद् धृगोऽच् भवति / धनु-- धरः / भूधरः / दण्डादिपूर्वात् तु दण्डधारः, कुण्डधारः / हृगो वयोऽनुद्यमे / 5 / 1 / 96 / कर्मणः पराद् हरते: * वयसि अनुद्यमे च गम्येऽच् भवति / अस्थिहरः श्वशिशुः / अंशहरो दायादः / मनोहरा माला / आङः शीले। 5 / 1 / 96 / कर्मणः परादाङपूर्वाद् हृगः शीले गम्येऽच् प्रत्ययो भवति / पुष्पाहरः / शील इति किम् ? पुष्पाहारः / दति-नाथात् पशाविः / 5 / 1 / 97 / आभ्यां कर्मभ्यां पराद् हरतेः पशौ कर्तरि इः प्रत्ययो भवति। दृतिहरिः श्वा / नाथहरिः सिंहः /