________________ ( 284) जायापतेश्चिह्नवति / 5 / 1 / 84 / / आभ्यां कर्मभ्यां पराद् हन्तेः चिह्नवति कर्तरि टक् प्रत्ययो मवति / जायाघ्नः / पतिघ्नी कन्या / ब्रह्मादिभ्यः / 5 / 1 / 85 / / एभ्यः कर्मभ्यः पराद् हन्तेः टक् प्रत्ययो भवति / ब्रह्मनः / गोध्नः पापी। हस्तिबाहुकपाटाच्छक्तौ / 5 / 1 / 86 / . एभ्यः कर्मभ्यः पराद् हन्धातोः शक्तौ गम्यमानायां कर्तरि टक् प्रत्ययो भवति / हस्तिघ्नः / बाहुघ्नः / कपाटनः / 'रानघ इति निपात्यः' राजानं हन्ति राजयः ! नगरादगजे / 5 / 1 / 87 // अस्मात् कर्मणः पराद् हन्तेरगजे कर्तरि टक् प्रत्ययो भवति। नगरघ्नो व्याघ्रः / अगज इति किम् ? नगरघातो हस्ती / ' शिल्पिनि पाणिघताडयौ निपात्यौ'। कुक्ष्यात्मोदराद् भृगः खिः / 5 / 1 / 90 / एभ्यः कर्मभ्यो भृगः खिः भवति / कुशिम्भरिः / आत्मम्भरिः / उदरम्भरिः। अोऽच् / 5 / 1 / 91 / कर्मणः परादहतेरच् प्रत्ययो भवति / पूजामर्हतीति पूजार्हा वीतरागमूर्तिः / पूजार्होऽर्हन् /