________________ (283 ) समः ख्यः / 5 / 1 / 77 / कर्मणः परात् सम्पूर्वात् ख्यातेः डो भवति / गां संख्याति गोसंख्यः। दश्चाङः / 5 / 1 / 78 / - कर्मणः परादाङपूर्वाद् दागः ख्यातेश्च डो भवति / दायमाददाति दायादः / स्त्रयाख्यः / प्राज्ज्ञश्च / 5 / 1 / 79 / कर्मणः परात् प्रपूज् ज्ञो दश्च डप्रत्ययो भवति / पथिप्रज्ञः / प्रपाप्रदः। आशिषि हनः / 5 / 1 / 80 / कर्मणः पराद् हन्तेः आशिषि गम्यायां कर्तरि डो भवति / शत्रु वध्यात् शत्रुहः / क्लेशादिभ्योऽपात् / 5 / 1 / 81 / / क्लेशादिकर्मणः पराद् हन्तेः कर्तरि डः प्रत्ययो भवति / क्लेशमपहन्ति क्लेशापहो मुनिः / तमांस्यपहन्ति तमोऽपहः सूर्यः / / ___ कुमारशीर्षाण्णिन् / 5 / 1 / 82 / आभ्यां कर्मभ्यां पराद् हन्तेणिन् प्रत्ययो भवति / कुमार घाती / शीर्षघाती। अचित्ते टक् / 5 / 1 / 83 / / ___ कर्मणः पराद् हन्तेरचित्तवति कर्तरि कू भवति / वातघ्नं तैलम् / अचित्त इति किम् ? पापघातो यतिः / .