________________ ( 282) तिक्कृतौ नाम्नि / 5 / 1 / 71 / / आशीविषये सञ्ज्ञायां गम्यमानायां धातोः तिक् कृत्संज्ञकाश्च प्रत्यया भवन्ति / शान्तिः / वीरभूः / वर्धमानः / कर्मणोऽण् / 5 / 1 / 72 / कर्मणः पराद् धातोः अण् प्रत्ययो भवति / कुम्भं करोतीति कुम्भकारः / शीलिकामिभक्ष्याचरीक्षिक्षमोणः / 5 / 1 / 73 / कर्मणः परेभ्य एभ्यो धातुभ्यः कर्तरि णः प्रत्ययो भवति / धर्मशीला / धर्मकामा / वायुभक्षा / कल्याणमाचरति कल्याणाचारा / सुखप्रतीक्षा / बहुक्षमा / , गायोऽनुपसर्गात् टक् / 5 / 1 / 74 / कर्मणः परादनुपसर्गाद् गायतेष्टक् प्रत्ययो भवति / वक्रगी। उपसर्गात्तु खरुसंगायः / सुरासीधोः पित्रः / 5 / 1 / 75 / आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक भवति / सुरापी। सीधुपी। आतो डोऽहावामः / 5 / 1 / 76 / कर्मणः परादनुपसर्गाद् हावामावनितादादन्ताद् धातोः कर्तरि डो भवति / गां ददाति गोदः / अहावाम इति किम् ? स्वर्गहायः, तन्तुवायः, धान्यमायः /