________________ प्रत्यायः / पिन्यको अक्ट प्रत्ययाति नलुकिं (281). तनव्यधीश्वसातः / 5 / 1 / 64 / एभ्यो धातुभ्य आदन्तेभ्यश्च णप्रत्ययो भवति / तानः / व्याधः / प्रत्यायः / श्वासः / अवश्यायः / नृत-खन्-रञ्जः शिल्पिन्यकट् / 5 / / 65 / ___एभ्यो धातुभ्यः शिल्पिनि वाच्ये अकट् प्रत्ययो भवति / नर्तकः / नर्तकी / खनकः / ' अकट-घिनोश्च रञ्जः ' इति नलुकि रजकः / शिल्पिनीत्येव नर्तिका / गस्थकः। 5 / 1 / 66 / गाधातोः शिल्पिनि थकः प्रत्ययो भवति / गाथकः / टनण् / 5 / / 67 / शिल्पिनि वाच्ये गाधातोष्टनण् भवति / गायनी / हः कालत्रीह्योः / 5 / 1 / 68 / .. हाको हाङो वा कालवीह्योर्वाच्ययोः कर्तरि टनण् भवति.। हायनः वर्षम् / हायना व्रीहयः / . असल्वोऽकः साधौ / 5 / 1 / 69 / ___एभ्यो धातुभ्यः साधावर्थे अकः प्रत्ययो भवति / साधु प्रवते इति प्रवकः / सरकः / लवकः / अन्यत्र प्रावकः / आशिष्यकन् / 6 / 1 / 70 / . आशिषि गम्यमानायां धातोः कर्तर्यकन् प्रत्ययो भवति / वतात जीवकः / आशिषीति किम् ? जीवतीति जीविका।: