________________ - (280) घ्राध्मापाद्धेदृशः शः / 5 / 1 / 58 / एभ्यः कर्तरि शः प्रत्ययो भवति / शित्त्वाद जिघ्राबादेशाः / निघः / उद्धमः / पिवः / वयः / उत्पश्यः / साहिसातिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् / 5 / 1 / 19 / ___अनुपसर्गेभ्यो ण्यन्तेभ्य एतेभ्यः शो भवति / साहयः / सातयः / वेदयः / उदेजयः / धारयः / पारयः / चेतयः / लिम्प-विन्दः / 5 / 1.60 / अनुपसर्गाभ्यामाभ्यां शो भवति / लिम्पतीति लिम्पः / विन्दतीति विन्दः / निगवादेर्नाम्नि / 5 ! 1 / 61 / निपूर्वाद् लिम्पेः गवादिपूर्वाञ्च विन्दे: लज्ञायां को भवति / निलिम्पा देवाः / गोविन्दः / कुविन्दः / / वा ज्यलादिधुनीभृग्रहास्रोणः / 5 / 1 / 62 / ज्वलादिभ्योः दुनोत्यादिभ्य आस्रोश्चानुपसर्गेभ्यो णः प्रत्ययो वा भवति / ज्वलः, ज्वालः / चालः, चलः / दावः, दवः / नायः, नयः / भावः, भवः / ग्राहो मकरादिः, ग्रहः सूर्यादिः / आस्रावः, आत्रवः / अवहसासंस्रोः / 5 / 1 / 63 / अवपूर्वाभ्यां हसाभ्यां सम्पूर्वाच्च स्रोश्च णः प्रत्ययो भवति / अवहारः / अवसायः / संत्रावः /