________________ '( 279) गुणवृद्धी न भवतः। नेन्यः / चेच्यः। मरीमृजः। 'ब्रूगोऽचि ब्रुवादेशो वक्तव्यः' ब्राह्मणब्रुवः / नन्यादिभ्योऽनः / 5 / 1 / 52 / / एभ्यो गणदृष्टेभ्यः कर्तर्यनः प्रत्ययो भवति / नन्दनः / वाशनः / सहनः / संक्रन्दनः / सर्वदमनः / नर्दनः / ग्रहादिभ्यो णिन् / 5 / 1 / 53 / एभ्यः कर्तरि णिन् प्रत्ययो भवति / ग्राही / स्थायी / दायी। नाम्युपान्त्यप्रीकृगृज्ञः कः / 5 / 1 / 54 / नाम्युपान्त्येभ्यः प्रीकृगृज्ञाभ्यश्च कर्तरि को भवति / विक्षिपः। प्रियः / किरः / गिलः / ज्ञः / गेहे ग्रहः / 5 / 1 / 55 / गेहेऽर्थे वाच्ये ग्रहधातोः कः प्रत्ययो भवति / गृहम् / गृहाः दारा इत्यर्थः / ' . उपसर्गादातो डोश्यः। 6 / 1 / 56 / श्यैवर्जितादुपसर्गात् / परादादन्ताद् धातोः डः प्रत्ययो भवति / आह्वः / प्रह्वः / उपसर्गादिति किम् ? दायः / अश्य इति किम् ? अवश्यायः / व्याघ्राले प्राणिनसोः।५।१। 57 / . एतौ यथासंख्यं प्राणिनि नासिकायां चार्थे निपात्येते / व्याघ्रः प्राणी / आघ्रा नासिका /