________________ (278) धातोः परावेतौ भवतः / करोतीति कारकः, कर्ता / हारकः / खादकः / पाचकः / हर्ता / खादिता / पक्ता / अहे तृच / 5 / 4 / 37 / - अर्हे कर्तरि धातोस्तृच् भवति / भवान् छेदसूत्रस्य वोढा / कन्याया वोढा / ___ अच् / 6 / 1 / 49 / धातोः कर्तरि अच् भवति / करः / हरः / पचः / भवः / __णिन् चावश्यकाधमण्ये / 5 / 4 / 36 / अवश्यं भाव आवश्यकम् , ऋणेऽधमः अधमर्णस्तस्य भाव आघमर्ण्यम् / आवश्यकाऽऽधमर्ण्ययोः गम्यमानयोः धातोः कर्तरि णिन् कृत्याश्च भवन्ति। अवश्यं करोतीति कारी। हारी / अवश्यंकारी / अवश्यगेयः साम्नाम् / शतं दायी। सहस्रं दायी। लिहादिभ्यः / 5 / 1 / 50 / ____ एभ्यो धातुभ्यः कर्तर्यच् प्रत्ययो भवति / लेढीति लेहः / शेषः। अचि / 3 / 4 / 15 / अचि प्रत्यये परे यङो लुब् भवति / चेच्यः / नेन्यः / न वृद्धिश्चाविति क्डिल्लोपे / 4 / 3 / 11 / / अविति प्रत्यये परे यः कितो ङितश्च लोपस्तस्मिन् सति