________________ (276) एते कर्तरि वा निपात्यन्ते / भवतीति भव्यः, पक्षे भव्यमनेन / गायतीति गेयः साम्नाम् , पक्षे गेयानि सामानि / एवं जन्यः, जन्यमनेन / रम्यः, रम्यमनेन / आपात्यः, आपात्यमनेन / आप्लाव्यः, आप्लान्यमनेन / प्रवचनीयादयः / 5 / 1 / 8 / ___ एतेऽनीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते / प्रवक्तीति प्रवचनीयो गुरुः शास्त्रस्य, पक्षे 'प्रोच्यते इति प्रवचनीयं शास्त्रं गुरुगा। एवमुपस्थानीयः शिष्यः गुरोः, उपस्थानीयो गुरुः शिष्येण / श्लिषशीस्थाऽऽसवसजनसहभजेः क्तः / 5 / 1 / 9 / ____ एभ्यः क्तप्रत्ययः कर्तरि वा भवति / आश्:ि चैत्रः कान्ताम् , आश्लिष्टा कान्ता चैत्रेण / अतिशयितो गुरुं शिष्यः, अतिशयितो गुरुः शिष्येण / उपस्थितो गुरुं शिष्यः, उपस्थितो गुरुः शिष्येण / उपासिता गुरुं शिष्याः, शिष्यैरुपासितो गुरुः / अनूषिता गुरुं शिष्याः, शिष्यैरुनूषितो गुरुः / ते तामनुजाताः, तैः साऽनुजाता / चैत्रोऽश्वमारूढः, चैत्रेणाश्च आरूढः / ते कामकास्तामनुजीर्णाः, तैः साऽनुजीर्णा / ते धनं विभक्ताः, तैः धनं विभक्तम् / आरम्भे / 5 / 1 / 10 / आरम्भार्थाद् धातोः भूतादौ यः क्तः स कर्तरि वा भवति / ते कटं प्रकृताः, पक्षे तैः कटः प्रकृतः / ..