________________ (1275) अथ कृत्यभिन्नकृत्प्रत्ययप्रक्रिया। बहुलम् / 5 / 1 / 2 / निर्दिष्टादर्थादन्यस्मिन्नर्थे कृत्प्रत्यया बहुलं भवन्ति / पादाभ्यां हियते पादहारकः / मुह्यते आत्माऽनेन मोहनीय कर्म / सम्प्रदीयतेऽस्मै सम्प्रदानम् / कर्तरि / 5 / 1 / 3 / __ अर्थविशेषोक्ति विना कृत्प्रत्याः कर्तरि वेदितव्याः / करोतीति कर्ता, कारकः / - व्याप्ये घुरकेलिमकृष्टपच्यम् / 5 / 1 / 4 / ___ घुर-केलिमौ प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि भवन्ति / भज्यते स्वयमेवेति भगुरं काष्टम् / भिदुरम् / विदुरः / पच्यन्ते स्वयमेवेति पचेलिमा माषाः / भिदेलिमाः / कृष्टे स्वयमेव पच्यन्त इति कृष्टपच्याः शालयः / 'संगतेऽर्थे अजयं निपात्यम् ' अजर्यमायसंगतम् , अन्यत्र अजरः पटः / ___ रुच्याव्यथ्यवास्तव्यम् / 5 / 1 / 6 / ___एते कर्तरि निपात्यन्ते / रोचते इति रुच्यो धर्मः / न व्ययते इति अव्यथ्यो मुनिः / वसतीति वास्तव्यः / भव्यंगेयजन्यरम्यापात्याप्लाव्यं नवा / 5 / 1 / 7 /