SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ (274) पदास्वैरिवाह्यापक्ष्ये ग्रहः / 5 / 1 / 44 / _ एष्वर्थेषु वाच्येषु गृह्णातेः क्यब् भवति. / प्रगृह्यं पदम् / गृह्याः परतन्त्राः / ग्रामगृह्या बाह्या इत्यर्थः / गुणगृह्या गुणपक्ष्या इत्यर्थः / भृगोऽसञ्ज्ञायाम् / 5 / 1 / 45 / . असञ्ज्ञायां भृगः क्यब् भवति / भृत्यो योज्यः / संज्ञायां तु भार्या पत्नी। समो वा / 5 / 1 / 46 / सम्पूर्वाद् भृगः क्यब् वा भवति / सम्भृत्यः, सम्भार्यः / ते कृत्याः / 5 / 1 / 47 / घ्याम् तव्य अनीय य क्यब् एते प्रत्ययाः कृत्यसंज्ञका भवन्ति / एते सकर्मकात् कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति, तथैवोदाहृताः / इति कृत्प्रत्ययान्तर्गता कृत्यप्रक्रिया समाप्ता /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy