________________ (273) एते सज्ञायां क्यबन्ता निपात्यन्ते। कुप्यं धनम् / भिद्यः उद्ध्यः / सिध्यः / तिष्यः / पुष्यः / युग्यं वाहनम् / आज्यं घृतम् / सूर्यो रविः / दृग्रस्तुजुषैतिशासः / 5 / 1140 / - एभ्यः क्यब् भवति / आदृत्यः / आवृत्यः / स्तुत्यः / जुष्यः / इत्यः / शिष्यः / इस्वस्य तः पित्कृति / 4 / 4 / 113 / हस्वान्तस्य धातोः पिति कृति परे तोऽन्तो भवति / तथा चोदाहृतानि / ऋदुपान्त्यादकृपिचूदृचः / 5 / 1 / 41 / कृपिवृतिऋचिवर्जिताद् ऋदुपान्त्याद् धातोः क्यब् भवति / वृत्यम् / गृध्यम् / वृध्यम् / अकृपीत्यादि किम् ? कल्प्यम्। चय॑म् / अर्च्यम् / . - कृषिमृजिशंसिगुहिदुहिजयो वा / 5 / 1 / 42 / / एभ्यः क्यब् वा भवति / कृत्यं, * कार्यम् / वृष्यं, वर्ण्यम् / मृन्यं, मार्यम् / शस्यं, शंस्यम्। गुह्यं, गोह्यम् / दुह्यं, दोह्यम् / नप्यं, जाप्यं वा। जिविपून्यो हलिमुअकल्के / 5 / 1 / 43 / जयतेः विपूर्वाभ्यां पूनीभ्यां च यथासंख्यं हलिमुञ्जकल्करूपेषु कर्मसु वाच्येषु क्यब् भवति / जित्यो हलिः / विपुयो मुञ्जः / विनीयः कल्कः / . 18