________________ (272) चरेराङस्त्वगुरौ / 5 / 1 / 31 / .. अनुपसर्गाच्चरतेः आङपूर्वात् तु अगुरावर्ये यो भवति / चर्यः / आचों देशः / गुरौ तु आचार्यः / वर्योपसर्यावधपण्यमुपेयर्तुमतीगीविक्रेये। 5 / 1 / 32 / उपेयादिष्वथेष्वेते यथासंख्यं निपात्यन्ते / वर्या कन्या / उपसर्या गौः / अवयं गर्यम् / पण्या गौः / स्वामिवैश्येऽर्यः / 5 // 1 33 // स्वामिवैश्ययोर्वाच्ययोः ऋधातोः यः प्रत्ययो भवति / अर्यः स्वामी, वैश्यः / आर्योऽन्यः / ___ वा करणे / 5 / 1 / 34 / वहेः करणे यो भवति / वह्यं शकटम् / अन्यत्र वाह्यम् , नानो वदः क्यप् च / 5 / 1 / 35 / / अनुपसर्गाद् नाम्नः पराद् वदतः क्यप्यौ भवतः / ब्रह्मोद्यम् / ब्रह्मवद्यम् / 'भावे हत्याभूयौ निपात्यो' ब्रह्महत्या, देवभूयम् / ___ अग्निचित्या / 5 / 1 / 37 / अग्नेः परात् स्त्रीभावे चिनोतेः क्यब् भवति / अग्निचित्या। खेय-मृषोधे / 5 / 1 / 38 / / एतौ क्यबन्तौ साधू भवतः। खेयम् / मृषा उद्यते मृषोद्यम् / कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि / 5 / 1 / 39