________________ (271) याज्या दानर्चि। 5 / 1 / 26 / * करणेदानय॑भिधेयायां यन्धातोः घ्यण् निपात्यते / याज्या / तव्यानीयौ / 5 / 1 / 27 / धातोः परौ भावे कर्मणि एतौ भवतः / कर्तव्यम् / हर्तव्यः पठनीयम् / ____ य एचातः / 5 / 1 / 28 / स्वरान्ताद् धातोः यः प्रत्ययो भवति, आकारस्य चैकारः / चेयम् / हेयम् / धेयम् / देयम् / पेयम् . शकितकिचतियतिशसिसहियजिभजिपवर्गात् / 5 / 1 / 29 // एभ्यः पवर्गान्तेभ्यश्च धातुभ्यो यो भवति / शक्यः / तक्यम् / चत्यः / यत्यः / शस्यः / सह्यम् / यज्यम् / भन्यम् तप्यम् / गम्यः / क्षय्य-जय्यौ शक्तौ / 4 / 3 / 90 / एतौ शक्तौ गम्यमानायां यान्तौ निपात्येते / क्षय्यो व्याधिः। जय्यः शत्रुः / शक्ताविति किम् ? क्षेयं पापम् / जेयं मनः क्रय्यः क्रयार्थे / 4 / 3 / 91 / / क्रयार्थे क्रय्य इति निपात्यते / क्रय्यः गौः / क्रय्यो इति किम् ? क्रेयं धान्यं न च प्रसारितम् / यममदगदोऽनुपसर्गात् / 5 / 1 / 30 / . उपसर्गरहितेभ्य एभ्यो यः प्रत्ययो भवति / यम्यम् / मद्यम् / गद्यम् /