________________ (270) आङ्पूर्वाभ्यां सुग्नमाभ्यां यौत्यादेश्य घ्यण भवति / आसाव्यम् / पाव्यम् / वाप्यम् / राप्यम् / लाप्यम् / त्राप्यम् / डेप्यम् / दाभ्यम् / आचाम्यम् / वाऽऽधारेऽमावस्या / 5 / 1 / 21 / अमापूर्वाद् वस्धातोः आधारे घ्यण भवति, इस्वश्च वा / अमा सह वसतः सूर्याचन्द्रमसौ यस्यां तिथौ सा अमावस्या, अमावास्या वा तिथिः / संचाय्यकुण्डपाय्यराजसूयं ऋतौ / 5 / 1 / 22 / / एते क्रतावर्थे व्यण्प्रत्ययान्ता निपात्यन्ते / संचाय्यः / कुण्डेन पीयते यस्मिन् स कुण्डपाय्यः / राजभिः सूयते राजसूयः यज्ञः / प्रणाय्यो निष्कामासम्मते / 5 / 1 / 23 / प्रपूर्वाद् नयतेः . ध्यणआयादेशश्च भवतः, निष्कामेऽसम्मते चार्थे / प्रणाय्यः शिष्यः, चौरो वा। धाय्यापाय्यसानाय्यनिकाय्यमृग्मानहविनिवासे / 5 / 1 / 24 / एते ऋगाद्यर्थेषु ध्यणन्ता यथासंख्यं निपात्यन्ते / धाय्या ऋक् / पाय्यं मानम् / सानाय्यं हविः / निकाय्यो निवासः / परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ / 5 / 1 / 25 / एते अग्नावर्थे निपात्यन्ते / परिचाय्यः, - उपचाय्यः, आनाय्यः, समूह्यः, चित्योऽग्निः /