________________ ( 269) नमो नमः श्रीप्रमुधर्मसूरये। अथ कृदन्तप्रक्रिया। अथ कृत्प्रत्ययान्तर्गता कृत्यप्रक्रिया / आ तुमोऽत्यादिः कृत् / 5 / 1 / 1 / तुमभिव्याप्य त्यादि वर्जयित्वा ये प्रत्ययास्ते कृत्संज्ञका भवन्ति। घनघात्यः / ऋवर्णव्यानान्ताद् ध्यण / 5 / 1 / 17 / ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोः घ्यण् भवति / कृत्यत्वात् 'तत्साप्यानाप्याद्' इति कर्मणि भावे च क्रियते यत् तत् कार्यम् / पच्यते इति पाक्यम् ‘क्तेऽनिटश्चनोः कगौ ' इति सूत्रेण चस्य कत्वम् / पाणिसमवाभ्यां सृजः / 5 / 1 / 18 / आभ्यां सृज्धातोः ध्यण भवति / पाणिभ्यां सृज्यते पाणिसारन्जुः, समवसर्या / .. उवर्णादावश्यके / 5 / 1 / 19 / / उवर्णान्तादावश्यके गम्ये व्यण् भवति / अवश्यं भूयते अवश्यभाव्यम् / आसुयुवपिरपिलपित्रपिडिपिदभिचम्यानमः / 5 / 1 // 20 //