________________ (36) सखिभ्यः / सख्युः। सख्योः / सम्वीनाम् / सखि+ङि इति स्थिते / / केवलसखिपतेरौ।१।४।२६।' इदुदन्ताभ्यां केवलसखिपतिभ्यां परस्य डेरौ इत्यादेशः स्यात्। सख्यो / सख्योः / सखिषु / हे सखे / हे सखायौ / हे सखायः। एवं पतिः पती पतयः / पतिम् पती पतीन् / पत्या पतिभ्याम् पतिभिः / पत्ये पतिभ्याम् पतिभ्यः / पत्युः पतिभ्याम् पतिभ्यः / पत्युः पत्योः पतीनाम् / पत्यो पत्योः पतिषु.। केवलेति विशेषणात् समासे तु मुनिवद्-भूपतिः भूपती भूपतयः / भूपतिम् भूपती भूपतीन् / भूपतिना भूपतिभ्याम् भूपतिभिः / भूपतये भूपतिभ्याम् भूतिभ्यः / भूपतेः भूपतिभ्याम् भूपतिभ्यः / भूपतेः भूपत्योः भूपतीनाम् / भूपतौ भूपत्योः भूपतिषु / एवं सुसखा सुसखायौ सुसखायः। सुसखायम् सुसखायौ सुसखीन् / सुसखिना सुसखिभ्याम् सुसखिभिः इत्यादयः / नित्यद्विवचनान्तो द्विशब्दःद्वि+औ इति स्थिते / आ द्वेरः / 2 / 1 / 41 / द्विशब्दमभिव्याप्य त्यदादीनामन्त्यस्य तत्सम्बन्धिाने स्यादौ . परे तसादौ च तद्धिते परेऽकारादेशः स्यात् / द्व+औ द्वौ / द्वौ। द्वाभ्याम् / द्वाभ्याम् / द्वाभ्याम् / द्वयोः। द्वयोः / त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन् / त्रिभिः। त्रिभ्यः। त्रिभ्यः। त्रि+आम् इति स्थिते /