________________ (34) . हे कुन्थो / हे कुन्थू / हे कुन्थवः / सखिशब्दस्य विशेषःसखि+सि इति स्थिते / ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डा / 1 / 4 / 84 / . ऋकारान्तादुशनसः पुरुदंशसः इकारान्तसखिशब्दाच्च परस्य शेषस्य से देशः स्यात् / डित्त्वादन्त्यस्वरादेर्लोपे सखा। शेषस्येति विशेषणाद् हे सखे / मखि+औ इति स्थिते / सख्युरितोऽशावत् / 1 / 4 / 83 / इदन्तस्य सखिशब्दस्य तत्सम्बन्धिनि वाऽन्यसम्बन्धिनि शिवर्जिते शेषे घुटि परे एकारान्तादेशः स्यात् / आयादेशे सखायौ / सखायः / सखायम् / सखायौ / सखीन् / सखि+टा इति स्थिते। न नाङिदेत् / 1 / 4 / 27 / केवलसखिपतिभ्यां परस्य टाप्रत्ययस्य नादेशः, ङिति परे एकारश्चोक्तः स न स्यात् / सख्या / सखिभ्याम् / सखिभिः / सख्ये / सखिभ्याम् / सखिभ्यः / सखि+ङसि इति स्थिते ङकारस्येत्सब्ज्ञायां सत्याम् ' इवर्णादेः ' इत्यादिना यत्वे सख्य अस् इति जाते / खितिखीतीय उर् / 1 / 4 / 36 / खितिखीतीसम्बन्धिन इवर्णस्य स्थाने यो यकारस्तस्मात् परथोङसिङसोः स्थाने उरादेशः स्यात् / सख्युः / सखिभ्याम् / खिनि