________________ (36) त्रेस्त्रयः।१।४।३४। आम्सम्बन्धिनः त्रिशब्दस्य त्रयादेशः स्यात् / त्रयाणाम् / त्रिषु / कतिशब्दो नित्यं बहुवचनान्तः त्रिषु लिङ्गेषु सदृशश्च / कति+जस् इति स्थिते / डत्यतु संख्यावत् / 1 / 1 / 39 / डतिप्रत्ययान्तमत्वन्तं च नाम संख्यावत् स्यात् / डतिष्णः संख्याया लुप् / 1 / 4 / 54 / डतिप्रत्ययान्तात् षकारान्ताद् नकारान्ताच्च संख्यावाचिनः परस्य जस्शसोलुप् स्यात् / कति / कति / कतिभिः / कतिभ्यः / कतिभ्यः / कतीनाम् / कतिषु / लुक् इत्यनेन सिद्धे लुबिधानं स्थानिवद्भावबाधनार्थम् / ईकारान्तपुंलिङ्गः सुश्रीशब्दः / सुश्रीः सुश्री+औ इति स्थिते। धातोरिवणोवर्णस्येयुत् स्वरे प्रत्यये / 2 / 1 / 5 / / धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवौ स्याताम् / सुश्रियो / सुश्रियः / सुश्रियम् / सुश्रियो / सुश्रियः। सुश्रिया / सुश्रीभ्याम् / सुश्रीभिः 'वेयुवोऽस्त्रियाः / इत्यनेन सुश्रियै सुश्रिये / सुश्रीभ्याम् / सुश्रीभ्यः / सुश्रियाः सुश्रियः / सुश्रीभ्याम् / सुश्रीभ्यः। सुश्रियाः सुश्रियः / सुश्रियोः। सुश्रियाम् सुश्रीणाम् / सुश्रियां सुश्रियि / सुश्रियोः / सुश्रीषु / हे सुश्रीः