________________ (266) - स्म उपपदे प्रैषादिषु गम्येषु ऊर्वमौहुर्तिकाद् धातोः पञ्चमी भवति / ऊर्च मुहूर्ताद् भवान् कटं करोतु स्म / भवान् हि प्रेषितोऽनुज्ञातः; भवतोऽवसरः कटकरणे। अधीष्टौ / 5 / 4 / 32 / - स्मे उपपदेऽध्येषणायां गम्यमानायां धातोः पञ्चमी भवति / अङ्ग स्म हे विद्वन् ! अणुव्रतानि रक्ष। ___ सप्तमी यदि / 5 / 4 / 34 / - यच्छब्दप्रयोगे कालादिश्रुपपदेषु धातोः सप्तमी भवति / कालो यद् अधीयीत भवान् / वेला यद् भुञ्जीत / समयो यच् छ्यीत / आशिष्याशी:-पञ्चम्यौ। 5 / 4 / 38 / आशीविशिष्टार्थादाशी:- पञ्चम्यौ भवतः / जीयात् भवान् / जयतु राजन् / आशिषीति किम् ? चिरं जीवति सिद्धपुत्रः / माङयद्यतनी / 5 / 4 / 39 / माङि उपपदे धातोरद्यतनी भवति / मा कार्षीत् / मा गमः / सस्मे ह्यस्तनी च / 5 / 4 / 40 / स्मयुक्ते माङिः उपपदे धातो ह्यस्तन्यद्यतन्यौ भवतः / मा स्म करोत् , मा स्म कार्षीत् / . धातोः सम्बन्धे प्रत्ययाः / 5 / 4 / 41 / . धात्वर्थानां सम्बन्धे विशेषणविशेष्यभावे सति अयथाकालमपि