________________ ( 267) प्रत्यया भवन्ति / विश्वदृश्वा अस्याः पुत्रो भविता / भावि कृत्यमासीत् / गोमान् आसीत् / भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च तद्युष्मदि / 5 / 4 / 42 / भृशाभीक्ष्ण्ये सर्वकालार्थे वर्तमानाद् धातोः सर्वविभक्तिसर्ववचनविषये हिस्वौ भवतः, यस्मादेव धातोर्यस्मिन्नेव कारके हिस्वौ तत्कारकविशिष्टस्यैव तस्यैव धातोः अनुप्रयोगे सति / तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मदर्थे हिस्वौ च भवतः, ययाविधि धातोः सम्बन्धेऽनुप्रयोगे सति / लुनीहि लुनीहि इत्येवायं लुनाति, इमौ लुनीतः, इमे लुनन्ति। त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ / पक्षे लुनीत लुनीतेति यूयं लुनीथ / अहं लुनामि, आवां लुनीवः, वयं लुनीमः / लुनीहि लुनीहि इत्योमयं लविष्यति, अलावीदित्यादीन्यपि / अधीष्व अधीष्व इत्येवायमधीते, अधीयाते, अधीयते / अधीषे, अधीयाथे। युष्मद्बहुत्वे तु अधीष्व अधीष्व इति यूयमधीध्वे वा अधीध्वमधीध्वमिति यूयमधीध्वे इति प्रयोगद्वयम् / अधीये अधीवहे अधीमहे / यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनीते छिनत्ति लूयते इति धातोः सम्बन्धे न भवति। ____प्रचये नवा सामान्यार्थस्य / 5 / 4 / 43 / धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हिस्त्रौ तध्वमौ च तयुष्मदि वा भवतः। श्रीहीन