________________ इच्छार्थे धातावुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमीपञ्चम्यौ भवतः / इच्छामि मुञ्जीत, भुङ्क्तां वा भवान् / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नपार्थने / 5 / 4 / 28 / विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ भवतः / विधिः-क्रियायां प्रेरणा / कटं कुर्यात् , करोतु भवान् / / प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् द्विसन्ध्यमावश्यकं कुर्यात् , करोतु वा। यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् / इह आसीत, आस्तां भवान् / सत्कारपूर्विका प्रेरणाऽधीष्टम् व्रतं रक्षतु, रक्षेत् ।संप्रश्नः-सम्प्रधारणा / किन्नु भोः पूज्याः ! अहं व्याकरणमधीयीय, अध्ययै; उत सिद्धान्तमधीयीय, अध्ययै / प्रार्थनं याश्चा / प्रार्थना मे तर्कमधीयीय, अध्ययै / प्रैषानुज्ञाऽवसरे कृत्य-पञ्चम्यौ। 5 / 4 / 29 / प्रैषादिविशिष्टे कळदावर्थे कृत्याः पञ्चमी च भवन्ति / न्यत्कारपूर्विका प्रेरणा प्रैषः / भवता खलु कटः कार्यः / भवान् कर करोतु / भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे / ___सप्तमी चोर्ध्वमौहर्तिके / 5 / 4 / 30 / प्रैषादिषु गम्येषु ऊर्ध्वमौहर्तिके च वर्तमानाद् धातोः सप्तमीपञ्चम्यौ कृत्याश्च भवन्ति / ऊर्ध्व मुहूर्तात् कटं कुर्यात् , करोतु, कटः कृत्यश्च / भवान् हि प्रेषितः, अनुज्ञात;; भवतोऽवसरः कटकरणे / स्मै पञ्चमी / 5 / 4 / 31 /