________________ (263) ____ एखूपपदेषु अश्रद्धाऽमर्षयोः धातोः सप्तमी भवति / न श्रद्दधे,न क्षमे जातु तत्रभवान् सुरां पिबेत् / एवं यद् यदा यदि सुरां .पिबेत् / क्षेपे च यच्च-यत्रे / 5 / 4 / 18 / . यचयत्रयोरुपपदयोः क्षेपे अश्रद्धाऽमर्षयोश्च धातोः सप्तमी भवति / यच्च यत्र वा तत्रभवान् अस्मान् आक्रोशेत् / न श्रद्दधे, न क्षमे यच्च यत्र वा तत्रभवान् परपरिवादं कथयेत् / - चित्रे / 5 / 4 / 19 / आश्चर्ये गम्ये यच्च-यत्रयोरुपपदयोः सप्तमी धातोः भवति / चित्रमाश्चर्यं यच्च यत्र वा तत्रभवान् असेव्यं सेवेत / शेषे भविष्यन्त्ययदौ / 5 / 4 / 20 / यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये धातोः भविष्यन्ती भवति, न तु यदिशब्दे / चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति / . सप्तम्युताप्यो| ढे / 5 / 4 / 21 / बाढार्थयोरुताप्योरुपपदयोः धातोः सप्तमी भवति / उत कुर्याद अपि वा / बाढ इति किम् ?-उत दण्डः पतिष्यति / अपिधास्यति द्वारम् / सम्भावनेऽलमर्थे तदर्थानुक्तौ / 5 / 4 / 22 / अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्ये अलमार्थस्याप्रयोगे धातोः सप्तमी भवति / अपि मासमुपवसेत् / अलमर्थ इति