________________ (262) वस्त्रमधारयिष्यत् / पक्षे यथाप्राप्तम् / भविष्यति क्रियातिपतने तु नित्यमेव क्रियातिपत्तिः / कथं नाम तत्रभवान् विदेशभवं वस्त्रमधारयिष्यत् / __किंवृत्ते सप्तमीभविष्यन्त्यौ / 5 / 4 / 14 / किंवृत्ते उपपदे क्षेपे गम्ये धातोः सप्तमीभविष्यन्त्यौ भवतः / किं तत्रभवान् अनृतं ब्रूयात, वक्ष्यति वा / को नाम, कतरो नाम, कतमो नाम; यस्मै तत्रभवाननृतं ब्रूयात् , वक्ष्यति वा / ___अश्रद्धाऽमर्षेऽन्यत्रापि / 5 / 4 / 15 / अकिंवृत्ते किंवृत्ते चोपपदेऽश्रद्धाऽमर्षयोः गम्यमानयोः सप्तमीभविष्यन्त्यौ भवतः / न श्रद्दधे, न सम्भावयामि तत्रभवान् नाम अदत्तं गृह्णीयात् , ग्रहीष्यति वा / न श्रद्दधे किं तत्रभवान् अदत्तमाददीत, आदास्यते वा / न मर्षयामि, न क्षमे तत्रभवानदत्तं गृह्णीयात् , ग्रहीष्यति वा / किंकिलास्त्यर्थयोभविष्यन्ती / 5 / 4 / 16 / किंकिले अस्त्यर्थे चोपपदेऽश्रद्धाऽमर्षयोर्गम्यमानयोः भविष्यन्ती भवति / न श्रद्दधे, न संभवयामि किंकिल नाम तत्रभवान् परदारान् उपकरिष्यते / न श्रद्दधे, न मर्षयामि अस्ति नाम, भवति नाम, विद्यते नाम तत्रभवान् परदारानुपकरिष्यते / जातु-यद्-यदा-यदौ सप्तमी / 5 / 4 / 17 /