________________ ( 261) भूते / 5 / 4 / 10 / ___भूतार्थाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिभवति / दृष्टो मयाऽन्नार्थी चंक्रम्यमाणस्तव पुत्रोऽपरश्चातिथ्यर्थी; यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत / वोतात् / 5 / 4 / 11 / / ‘सप्तम्युताप्योर्बा हे ' इति सूत्रे यदुतशब्दकथनं ततः प्राक् सप्तम्यर्थे क्रियातिपत्तौ सत्यां भूतार्थाद् धातोर्वा क्रियातिपत्तिर्भवति। कथं नाम संयतः मन्ननागाढे तत्र भवान् अब्रह्म असेविष्यत, धिग् गर्हामहे / पक्षे कथं सेवेत, धिगू गर्हामहे / उतात् प्रागिति किम् ?कालो यदभोक्ष्यत भवान् / क्षेपेऽपिजात्वोर्वर्तमाना / 5 / 4 / 12 / अपिजात्वोरुपपदयोः क्षेपे गम्ये धातोर्वर्तमाना भवति / अपि ' तत्रभवान् जन्तून् हिनस्ति / जातु तत्रभवान् भूतानि हिनस्ति, घिग गर्हामहे / कथमि सप्तमी च वा / 5 / 4 / 13 / / कथंशब्दे उपपदे क्षेपे गम्ये धातोः सप्तमी वर्तमाना च वा भवति। कथं नाम तत्र भवान् विदेशभवं वस्त्रं धारयेत् ,धारयतिवा, गर्हामहे अन्याय्यमेतत् / पक्षे अदीधरत्, अधारयत्, धारयाचकार, धारयिता, धारयिष्यति / अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः / कथं नाम तत्रभवान् विदेश