________________ (260) एष्यदर्थस्तत्र वर्तमानाद् धातोः अनद्यतनविहितः प्रत्ययो न भवति / योऽयमध्वा गन्तव्यः, आ शत्रुञ्जयात् तस्य यदवरं वलम्यास्तत्र द्विभॊक्ष्यामहे मोदकान् / ... कालस्यानहोरात्राणाम् / 5 / 4 / 7 / कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे यो भविष्यदर्थस्तस्मिन् वर्तमानाद् धातोरनद्यतनविहितः प्रत्ययो न भवति / न चेत् सोऽर्वाग्भागोऽहोरात्राणाम् / योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः / अनहोरात्राणामिति किम् ?--योऽयं मास आगामी तम्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे / ___परे वा / 5 / 4 / 8 / कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवानहोरात्रसम्बन्धिनि परे भागे य एष्यदर्थस्तवृत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा न भवति / आगामिनः संवत्सरस्याग्रहायण्याः परस्ताद् द्विः भाष्यमध्येष्यामहे, अध्येतास्महे वा। सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः / 5 / 4 / 9 / सप्तम्या अर्थोः निमित्तं हेतुफलकथनादिसामग्री / कुतश्चिद्. वैगुण्यात् क्रियाऽनभिनिवृत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियातिपत्तिर्भवति / असहकारः सम्पूर्णतयाऽभविष्यद् न परदेशिराज्यमस्मिन् वर्षेऽस्थास्यत् /