________________ ( 259) पक्षे उपाध्यायश्चेदागमिष्यति, आगन्ता वा; एते तर्कमध्येष्यामहे, अध्येतास्महे वा। क्षिमाशंसार्थयोर्भविष्यन्ती-सप्तम्यौ / 5 / 4 / 3 / क्षिप्राशंसायोरुपपदयोराशंस्यार्थाद् धातोः यथासंख्यं भविप्यन्तीसप्तम्यौ भवतः / उपाध्यायश्चेद् आगच्छति, आगमत् , आगमिष्यति, आगन्ता वा; तदा शीघ्रं क्षिप्रम् आशु एते सिद्धान्तमध्येष्यामहे / उपाध्यायश्चेदागच्छति, आगमिष्यति, आगमत् , आगन्ता वा; आशंसे, सम्भावये युक्तोऽधीयीय / सम्भावने सिद्धवत् / 5 / 4 / 4 / हेतोः सामर्थ्यस्य श्रद्धा सम्भावनम् , तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्यया भवन्ति / समये चेत् प्रयत्नोऽभूद उदभूवन विभूतयः / नानद्यतनः प्रबन्धासत्त्योः / 5 / 4 / 5 / धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यमानायां धातोरनद्यतन. विहितः प्रत्ययो न भवति / यावज्जीवं भृशमन्नमदात् , दास्यति वा / यदिदं पर्युषणापर्व अतिक्रान्तमेतस्मिन् जिनोत्सवः प्रावर्तिष्ट / येयं पौर्णमासी आगामिनी, एतस्यां जिनकल्याणकोत्सवः प्रवर्तिष्यते। एष्यत्यवधौ देशस्यार्वाग्भागे / 5 / 4 / 6 / देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य