SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ( 258) . पञ्चम्या अर्थः प्रषादिस्तस्य हेतुरुपाध्यायागमनादिः, तस्मिन्नर्थे भविष्यत्कालिके वर्तमानाद् धातोर्वर्तमाना वा भवति / उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा; अथ त्वं भगवतीमधीष्व / सप्तमी चोर्ध्वमौहूर्तिके / 5 / 3 / 12 / मुहूर्तादूर्ध्वं भव ऊर्ध्वमौर्तिकः, तस्मिन् पञ्चम्यर्थहेतौ वय॑त्यर्थे वर्तमानाद् धातोः सप्तमी वर्तमाना च वा भवति ऊर्ध्वं मुहूर्तात् चेदुपाध्याय आगच्छेत् , आगच्छति, आगमिष्यति, आगन्ता वा; अथ त्वं नन्दिमधीष्व / * सत्सामीप्ये सचद् घा / 5 / 4 / 1 / समीपमेव सामीप्यम् , वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातोः वर्तमाना इव प्रत्यया वा भवन्ति / कदा वत्स ! आगतोऽसिं ?; अयमागच्छामि, आगच्छन्तमेव मां वित्त / पक्षे अयमागमम् , आगच्छम् / कदा चैत्र ! गमिष्यसि ?; एष गच्छामि, गच्छन्तमेव मां जानीत / पक्षे गमिष्यामि, गन्तास्मि, गमिष्यन्तं मां जानीत / भृतवच्चाशंस्ये वा / 5 / 4 / 2 / अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः, तदर्थाद् धातो तवत् सवच्च प्रत्यया भवन्ति। उपाध्यायश्चेदागमत् ; एते तर्कमध्यगीष्महि / उपाध्यायश्चेदागच्छति। एते तर्कमधीमहे /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy