________________ . . (297) किम् ?-- अद्य श्वो वा गमिष्यति ग्रामं चैत्रः। ' अनुशोचनेऽपि ' इयं तु.कदा गन्ता यैवं पादौ निधत्ते / पुरा-यावतोर्वर्तमाना। 5 / 3 / 7 / . अनयोरुपपदयोः भविष्यदर्थाद् धातोर्वर्तमाना भवति / पुरा मुङ्क्ते / यावद् मुक्ते। . कदाकोर्नवा / 5 / 3 / 8 / - अनयोरुपपदयोभविष्यदर्थाद् धातोर्वर्तमाना वा भवति / कदा भुङ्क्ते, भोक्ष्यते, भोक्ता / कर्हि मुङ्क्ते, भोक्ष्यते, भोक्ता / किंवृत्ते लिप्सायाम् / 5 / 3 / 9 / स्यादिविभक्त्यन्तस्य डतरडतमान्तस्य च किमो वृत्तं किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यायां भविष्यदर्थाद् धातोर्वर्तमाना वा भवति / को भवतां मिक्षां ददाति, दास्यति, दाता वा / कतमो भवतां भिक्षां ददाति, दास्यति, दाता का। किंवृत्त इति किम् ?-भिक्षां दास्यति.। लिप्सायामिति किम् -- कः पुरं यास्यति / - लिप्स्यसिद्धौ / 5 / 3 / 10 / लब्धुमिष्यमाणाद् भक्तादेः फलावाप्तौ गम्यायां भविष्यदर्थाद धातोर्वर्तमाना वा भवति / यो भिक्षां ददाति, दास्यति, दाता वा; स स्वर्गलोकं याति, यास्यति, याता वा / पञ्चम्यर्थहेतौ / 5 / 3 / 11 / . 17