________________ (256) ... भूतानद्यतनार्थे वर्तमानाद् धातोः स्मे पुरादौ चोपपदे वर्तमाना भवति / पृच्छति स्म प्रश्नान् विनयधर्मसूरिम् / सन्तीह पुरा जिनालयाः / ननौ पृष्टोक्तौ सद्वत / 5 / 2 / 17 / / ननावुपपदे पृष्टस्य प्रतिवचने भूतार्थे वर्तमानाद् धातोः वर्तमानेव वर्तमाना भवति / हे च्छात्र ! किमकार्षीः पाठम् ?, ननु करोमि भोः !, पाठं कुर्वन्तं मां पश्यत / --- नन्वोर्वा / 5 / 2 / 18 / नन्वोरुपपदयोः पृष्टोक्तौ भूतार्थे वर्तमानाद् धातोर्वर्तमाना वा भवति, सा च सद्वद् / किमकार्षीः पटं मैत्र !, न करोमि भोः ! न कुर्वन्तं मां पश्य, नाकार्षम् / नु करोमि, नु कुर्वाणं मां पश्य, न्वकार्षम् / . . . . . . . सति / 5 / 2 / 19 / वर्तमानार्थाद् धातोर्वर्तमाना भवति / अस्ति / पठति / पचति / भक्षयति / अधीमहे / तिष्ठन्ति / भविष्यन्ती / 5 / 3 / 4 / / भविष्यदर्थाद् धातोर्भविष्यन्ती भवति / भोक्ष्यते / गमिष्यति चैत्रः / पक्ष्यते। अनद्यतने श्वस्तनी / 5 / 3 / 5 / नास्त्यद्यतनो यत्र तस्मिन् , अनद्यतने भविष्यदर्थे वर्तमानाद घातोः श्वस्तनी भवति / कर्ता / हर्ता / पक्ता / अनद्यतने