________________ (255) नद्यतनार्थाद् धातोः परोक्षा भवति / सुप्तोऽहं किल विललाप / शत्रुञ्जये त्वयाऽकार्यं कृतम् , नाहं शत्रुञ्जयं जगाम / ___परोक्षे / 5 / 2 / 12 / __भूतानद्यतनपरोक्षार्थाद् धातोः परोक्षा भवति / धर्म दिदेश तीर्थङ्करः / हशश्वयुगान्तःपच्छ्ये हस्तनी च / 5 / 2 / 13 / ___हशब्दप्रयोगे शश्वति च प्रयुक्ते पञ्चवर्षमध्ये प्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः ह्यस्तनी परोक्षा च भवति / इति ह चकार, इति हाकरोत् / शश्वदकरोद्, शश्वत् चकार / किमगच्छस्त्वं सिद्धगिरिम् ? किं जगन्थ त्वं सिद्धगिरिम् / __ अविवक्षिते / 5 / 2 / 14 / भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोस्तिनी भवति / अहन् कंसं किल वासुदेवः / - वाऽद्यतनी पुरादौ / 5 / 2 / 15 / भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः पुरादावुपपदे सति अद्यतनी वा भवति / अवात्सुरिह पुरा जैनाः पक्षे अवसन् , अषुर्वा / तदाऽभाषिष्ट गौतमः, पक्षे अभाषत, बभाषे / स्मे च वर्तमाना। 5 / 2 / 16 / /