________________ ( 254) रात्रं वा अद्यतनः, तस्मिन्नसति भूतार्थाद् धातोर्चस्तनी भवति / कटमकरोत् / ख्याते दृश्ये / 5 / 2 / 8 / ख्याते-लोकविज्ञाते प्रयोक्तुः शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद् धातोस्तिनी भवति / महात्मना गान्धिकमोहनलालेन निर्णीतमसहकारधोरणमुत्तीर्णमकरोत् नागपुरे भारतीया महासमा। अरुणत् जर्मनसनाट् फ्रान्सम् / ख्यात इति किम् / कटं चकार / दृश्य इति किम् / रुरोध कोणिको विशालाम् / अयदि स्मृत्यर्थे भविष्यन्ती / 5 / 2 / 9 / स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनार्थे वर्तमानाद् धातोभविष्यन्ती भवति, न तु यदयोगे / स्मरसि साधो ! स्वर्गे स्थास्यामः। अयदि किम्-अभिजानासि मित्र ! यत् वाराणस्यामवसाम। वाऽऽकाङ्क्षायाम् / 5 / 2 / 10 / स्मृत्यर्थधातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां भूतानद्यतनार्थाद् धातोभविष्यन्ती वा भवति / स्मरसि मित्र ! काशीपाठशालायां वत्स्यामः, अवसाम वा; तत्र सह व्युत्पत्तिवादं पठिष्यामः, अपठाम वा। कृतास्मरणातिनिह्नवे परोक्षा / 5 / 2 / 11 / . कृतस्यापि कार्यस्यास्मरणे सति अत्यन्तनिहवे वा गम्ये भूता