________________ ( 253) अथ त्यादिविभक्त्यर्थप्रक्रिया। श्रुसदवस्भ्यः परोक्षा वा / 5 / 2 / 1 / भूतार्थे वर्तमानेभ्य एभ्यो धातुभ्यः परोक्षा वा भवति / उपशुश्राव पक्षे उपाश्रौषीत् , उपाशृणोत् / उपससाद, पक्षे उपासदत्, उपासीदत् / अनूवास पक्षे अन्ववात्सीत् , अन्ववसत् / / अद्यतनी / 5 / 2 / 4 / / भूतार्थाद् धातोरद्यतनी भवति / अकार्षीत् / विशेषाविवक्षाव्यामि।। 5 / 2 / 5 / अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च भूतार्थाद धातोरद्यतनी भवति / रामो वनमगमत् / अद्य ह्यो वाऽमुक्ष्महि / रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य / 5 / 2 / 6 / / रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी भवति, स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्य कर्तरि अस्वप्तरि सति भवति / अद्यतनेनैवान्त्ययामेनावच्छिन्नेऽद्यतने चेत् प्रयोगोऽस्ति, नाद्यतनान्तरे / अमुत्रावात्सम् / रात्रावन्त्ययामे मुहूर्तमपि स्वार्थ अमुत्रावसमिति / ____ अनद्यतने ह्यस्तनी / 5 / 2 / 7 / आ न्याय्यादुत्थानादा न्याय्याच संवेशनादहरुभयतः सार्ध