________________ ( 252) . एकधातौ पूर्वदृष्टया करणस्थया क्रियया अभिन्नाकर्मक्रिये कर्तरि झिक्यात्मनेपदानि भवन्ति क्वचित् / परिवारयन्ते कण्टका वृक्षं स्वयमेव / क्वचिदित्यत्र न साध्वसिः छिनत्ति / सृजः श्राद्ध बिक्यात्मने तथा।३।४। 84 / सृजः श्रद्धावति कर्तरि जिक्यात्मनेपदानि भवन्ति, यथा पूर्व विहितानि / असर्जि, सृन्यते, स्त्रक्ष्यते मालां धार्मिकः / श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् / , तपेस्तपःकर्मकात् / 3 / 4 / 85 / ___तपःकर्मकात् तपतेः कर्तरि जिक्यात्मनेपदानि भवन्ति, तथा / तप्यते, तेपे, अन्वतप्त तपः साधुः। तप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः / कर्म इति किम् ? तपः साधु तपति। कुषिरओाप्ये वा परस्मै च / 3 / 4 / 74 / आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति / तद्योगे च श्यः कुष्यति, कुष्यते वा पादः स्वयमेव / रन्यति, रज्यते वा वस्त्रं स्वयमेव / व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः / इति कर्मकर्तप्रक्रिया समाप्ता।