________________ (251) रुधेरनन्तरोक्ते कर्तरि बिच् न भवति / अरुद्ध गौः स्वयमेव / अन्यत्र अरोधि गौर्गोपालकेन / स्वरदुहो वा / 3 / 4 / 90 / स्वरान्ताद् दुहेश्चानन्तरोक्ते कर्तरि जिच् वा भवति। अकृत, अकारि कटः स्वयमेव / अदुग्ध, अदोहि गौः स्वयमेव / णिस्नुश्यात्मनेपदाकर्मकात् / 3 / 4 / 92 / ण्यन्तात् स्नुश्रिभ्यामात्मनेपदेऽकर्मकेभ्यश्च कर्मकर्तरि निच् न भवति / मैत्रः चैत्रेणौदनमपीपचत् , ओदनः स्वयमेवापीपचत / प्रास्नोष्ट गौः स्वयमेव / उदशिश्रियत दण्डः स्वयमेव / व्यकृत कटः स्वयमेव। भूषार्थसकिरादिभ्यश्च जिक्यौ / 3 / 4 / 93 / भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि निक्यौ न भवतः / अलंकुरुतें कन्या स्वयमेव। अलमकृत कन्या स्वयमेव / अचिकीर्षिष्ट कटः स्वयमेव / किरादि- किरते, अकीट पांशुः स्वयमेव। अगीष्ट, गिरते वा ग्रासः स्वयमेव / ण्यादि- कारयते कटः स्वयमेव / चोरयते गौः स्वयमेव। प्रस्नुते गौः स्वयमेव / उच्छ्यते दण्डः स्वयमेव / आत्मनेपदाकर्मकस्य विकुर्वते सैन्धवाः स्वयमेव / करणक्रियया क्वचित् / 3 / 4 / 94 /