________________ ( 250) चैत्रः ओदनं पचति, ओदनः स्वयमेव सिध्यति / कर्मक्रिययेति किम् ? चैत्रः असिना च्छिनत्ति, असिः स्वयमेव च्छिनत्ति। एकक्रियेति किम् ? स्रवत्युदकं कुण्डिका / कुण्डिकाया उदकं स्रवति। अकर्मक्रिय इति किम् ? भिद्यमानः कुशूलः पात्राणि भिनत्ति / पचि-दुहेः / 3 / 4 / 87 / एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया वा सकर्मिकया एकक्रिये कर्मकर्तृरूपे कर्तरि आभ्यां धातुभ्यां जिक्यात्मनेपदानि भवन्ति / पच्यते ओदनः स्वयमेव / पच्येत / पच्यताम्। अपच्यत / पेचे / पक्षीष्ट / पक्ता / अपक्ष्यत / अपाचि / दुह्यते गौः स्वयमेव / दुह्येत / दुह्यताम् / अदुह्यत। दुदुहे / धुक्षीष्ट / दोग्धा / धोक्ष्यते / अधोक्ष्यत / अदोहि, अदुग्ध अग्रे विकल्पो वक्ष्यते। न कर्मणा बिच / 3 / 4 / 88 / पचिदुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्मकर्तृरूपे कर्तरि . निच् न भवति / उदुम्बरः फलं स्वयमेव पच्यते, अपक्त / दुहधातोस्तु किरादौ पाठाद् जिक्यनिषेधेन दुग्धे / धोक्ष्यते / अदुग्ध गौः पयः स्वयमेव / कर्मणेति किम् ? अपाचि ओदनः स्वयमेव / अनन्तरोक्ते इति किम् ? अपाचि उदुम्बरः फलं वायुना / रुधः / 3 / 4 / 09 /