________________ (249 ) माणवको वौदनमित्यादयः / येषामकर्मकाणां योगे कालाद्याधाराणां कर्माकर्म च सञ्ज्ञा युगपद् भवति, तेषां सत्यपि कर्मणि भावे. प्रत्ययो भवति। मासमास्यते चैत्रेण कर्मसज्ञात्वाद् द्वितीया, अकर्म. सज्ञात्वाच्च भावे प्रत्ययः / मास आस्यते इत्यपि भवति, कर्मसज्ञाया अपि सत्त्वेन सकर्मकत्वात् कर्मण्यपि प्रत्ययः / यदा तु कर्माकर्मसंज्ञाया वैकल्पिकत्वादभवनं तदाऽऽधारत्वाद् अकर्मकत्वेन भाव एव प्रत्ययः मासे आस्यते / ण्यन्तात् प्रयोज्ये मासमास्यते माणवकश्चैत्रेण / इति भावकर्मप्रक्रिया समाप्ता। अथ कर्मकर्तृप्रक्रिया। एकधातौ कर्मक्रिययैकाकर्मक्रिये / 3 / 4 / 86 / . एकरि मन् धातौ सति पूर्वदृष्टया कर्मस्थया क्रियया एका अभिन्ना संप्रति चाकर्मिका क्रिया यस्य कर्तुस्तस्मिन् कर्तरि अर्थात् कर्मकर्तरि धातोः स्क्यिात्मनेपदानि भवन्ति यथा पूर्व विहितानि / चैत्र: ओदनं पचति तत्र सौकर्यात् कर्तृव्यापारो न विवक्ष्यते तदा चैत्रः किमोदनं पचति ? ओदनः स्वयमेव पच्यते इति भवति। एवं क्रियते / क्रियेत / क्रियताम् / अक्रियत / चक्रे / कृषीष्ट / कर्तासे / करिष्यते / अकरिष्यत / अकारि / एकधाताविति किम् /