________________ (248) अन्ववातप्त कितवः स्वयमेव / साधुः तपांसि अतप्त / चैत्रेण अन्वतप्त / अन्ववातप्त पापः कर्मणा / अन्यत्र अतापि पृथ्वी राज्ञा / आदन्तानां धातूनाम् ' आत ऐः कृऔ ' इत्यनेनैकारे आयादेशे च अदायि अदायिषाताम् , अदिषाताम् 'इश्च स्थादः' इतीः / दायिषीष्ट, दासीष्ट / दायिता, दाता / धीयते / धीयेत / धीयताम् / अधीयत / अधायि, अधायिषाताम् , अधिषाताम् / धायिषीष्ट, धासीष्ट / शम्यते / शम्येत / शम्यताम् / अशम्यत / अशमि 'मोऽकमि' इत्यादिना निषेधात् न वृद्धिः / ण्यन्तस्य तु 'शमोऽदर्शने' इति वा दीर्घ अशमि, अशामि / विरुणमोर्वा / 4 / 4 / 106 / 5 औ ख्णमि च परे लभधातोः स्वरात् परो नोऽन्तो वा भवति / लभ्यते / लभ्येत / लभ्यताम् / अलभ्यत / लेभे लेभाते लेभिरे / लब्धा लब्धारौ लब्धारः / लप्स्यते लप्स्येते लप्स्यन्ते / अलम्भि, अलाभि / यद्यपि सकर्मकाणां कर्मणि प्रत्ययः, तथापि द्विकर्मकत्वे नियमः, तदुक्तम्- "गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृषिवहाम् / बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया // 1 // प्रयोज्यकर्मण्यन्येषां ण्यन्तानां त्यादयो मताः।" इति ___गौः दुह्यते पयश्चत्रण, धुक्षीष्ट। अजा ग्रामं नीयते / बोध्यते माणवक्र धर्मः, माणवको वा धर्मम्। भोज्यते मात्रा माणवकमोदनः,