________________ ( 242) प्रत्यभ्यतेः क्षिपः / 3 / 3 / 102 / एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं भवति / प्रतिक्षिपति / अभिक्षिपति / अतिक्षिपति बटुम् / माद् वहः / 3 / 3 / 103 / / अस्मात् कर्तरि परस्मैपदं भवति / प्रवहति / परेमषश्च / 3 / 3 / 104 / परिपूर्वात् मृषेः वहेश्च कर्तरि परस्मैपदं भवति / परिमृष्यति। परिवहति / व्याङ्परे रमः / 3 / 3 / 105 / एभ्यो रमतेः कर्तरि परस्मैपदं भवति / विरमति / आरमति। परिरमति / ' उपाद् वा वक्तव्यम् ' उपरमते, उपरमति भार्याम् / अणिगि प्राणिकर्तृकानाप्याणिगः / 3 / 3 / 107 / ___ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुः तस्माद णिगन्तात् कर्तरि परस्मैपदं भवति / आसयति चैत्र मैत्रः / अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते / अणिगीति गकारः किम् ? चेतयमानं प्रयुङ्क्ते चेतयति / प्राणिकर्तृकादिति किम् ? आतपो व्रीहीन शोषयते / अनाप्यादिति / किम् ? कटं कारयते / चल्याहारार्थेबुधयुधमुद्रसुनशजनः / 3 / 3 / 108 /