________________ (241) एभ्यः पराद् यमः अग्रन्थविषये फलवति कर्तर्यात्मनेपदं भवति / संयच्छते व्रीहीन् / उद्यच्छते भारम् / आयच्छते वस्त्रम्। अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति / फलवतीत्येव संयच्छति। पदान्तरगम्ये वा / 3 / 3 / 99 / . प्रक्रान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत्र फलवत्कर्तृकत्वं यदि पदान्तरेण बोध्यते तदाऽऽत्मनेपदं वा भवति / स्वं शत्रु परिमोहयति, परिमोहयते वा। स्वं यज्ञं यजति, यजते वा / स्वं गां जानाति, जानीते वा। स्वं शत्रुमपवदति, अपवदते वा / स्वान् ब्रीहीन संयच्छति, संयच्छते वा। इत्यात्मनेपदप्रक्रिया। अथ परस्मैपदप्रक्रिया / शेषात् परस्मै / 3 / 3 / 100 / - एभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्माद् धातोः कर्तरि परस्मैपदं भवति / भवति / पिबति / धयति / अत्ति / जुहोति / दीव्यति / तुदति / सुनोति / रुणद्धि / चोरयति / परानोः कृगः।३।३ / 101 / परानुपूर्वात् कृगः कर्तरि परस्मैपदं भवति / पराकरोति / अनुकरोति / . . . . 16