________________ (240) मिथ्यायुक्ताद् णिगन्तात् कृगः क्रियाभ्यासे कर्तर्यात्मनेपदं भवति / पदं मिथ्या कारयते। मिथ्येति किम् ? पदं साधु कारयति / अभ्यास इत्येव सकृत् पदं मिथ्या कारयति / परिपुहायमायसपाट्धेवदवसदमादरुचनृतः फलमति / 3 / 3 / 94 / एभ्यो णिगन्तेभ्यः फलवति कर्तर्यात्मनेपदं भवति / परिमोहयते चैत्रम् / आयामयते सर्पम् / आयासयते जिनदत्तम् / पाययते शिशुम् / धापयते बटुम्।वादयते शिशुम् / वासयते पान्थम् / 'दमयते अश्वम् / आदयते चैत्रेण / रोचयते मैत्रम् / नर्तयते नटम् / ईगितः / 3 / 3 / 95 / ईदितो गितश्च धातोः फलवति कर्तर्यात्मनेपदं भवति / यनते। कुरुते / फलवतीत्येव यजति पराय / पचन्ति देवदत्ताय / ज्ञोऽनुपसर्गात् / 3 / 3 / 96 / ज्ञाधातोः फलवति कर्तर्यात्मनेपदं भवति, न तूपसर्गपूर्वात् / गां जानीते / फलवतीत्येव परस्य गां जानीते / - वदोऽपात् / 3 / 3 / 97 // अपपूर्वाद् वदधातोः फलवति कर्तर्यात्मनेपदं भवति / एकान्तमपवदते / फलवतीत्येव स्वभावात् परमपवदति / समुदाडो यमेरग्रन्थे / 3 / 3 / 98 /